।। क्षत्रियकुंड तीर्थ प्रतिष्ठा प्रशस्ति: ।।

।। क्षत्रियकुंड तीर्थ प्रतिष्ठा प्रशस्ति: ।।

 

श्रीमद् वीरजिनेशजन्मसुभगं कल्याणकेषूत्तमं

चैत्रं शुक्लमयं त्रयोदशदिनं जीयात् सुखैकाश्रयम् | 

देवेन्द्रो भगवत्-प्रभाव-चलित-स्वीयासनानंदितो

यस्मिन् कोटिकदेववृंदसहितः चक्रे सुमेरूत्सवम् ।।१।।

धन्या क्षत्रियकुंडभूमिरनघा वीरप्रभोरादिम-

श्वासोच्छ्वास-सुगंध-बंधुर-मरूद्-धाराभिरालिंगिता ।

भक्तैर्भारतदेशराज्यनगरग्रामेषु वीरोत्सवो

यः सर्वत्र विधीयतेsद्य स खलु प्रारंभितोsस्याः भुवः ।।२।।

वीरो पूर्वभवान् व्यतीत्य भगवान् षड्विंशतिं प्राप्तवान्

आषाढे सितपक्षषष्ठदिवसे गर्भस्थितिं निर्मलाम्  ।

ग्रामे ब्राह्मणकुंडनामनि महासौभाग्यवान् देवत

आनंदामधिकृत्य नक्तमृषभाद् दत्तस्य गेहे प्रभु: ।।३।। 

ईन्द्रादेशमवाप्य हारिनिगमेषी नाथमुत्थाप्य तत्-

कालं क्षत्रियकुंडराजभवने सिद्धार्थराज्ञीं नमन् ।

तस्याः कुक्षिमलंचकार भगवद्विन्यासनेनादराद्

आश्चर्यं तदभूदनन्तसमयेनाsत्रैव तीर्थस्थले ।।४।।

श्री सिद्धार्थनरेश्वरस्य भवने संपत्तिसंपूरिते 

माता श्रीत्रिशला चतुर्दशमहास्वप्नाsवलोकेन यम् ।

आनंदातिशयं जगाम परमं तस्याsभवत् साक्षिणी

सेयं क्षत्रियकुंडभूमिरमरैराराध्यमानाsनिशम् ।। ५।। 

धन्यो जन्मकरः क्षणो भगवतः धन्या तिथिः जन्मनो

धन्या क्षत्रियकुंड-नाममहिता श्रीवीरजन्मस्थली ।

यत्राsद्यापि विशिष्ट – देव – निकरै-रदृश्यभावाश्रितै-

रुत्कृष्टा प्रतिरात्रि भक्ति – रसितैरारात्रिका गीयते ।।६।।

षट्पंचाशकसंख्यया किल दिशां देव्योsत्र शश्वत् क्रमे

चक्रुः स्नात्रमहोत्सवं बहुविधै: द्रव्यैरमन्दादरात् ।

शक्रो वैक्रियलब्धिना शिशुविभो रूपं व्यधादुत्तरं

जग्राह स्वयमत्र पंचतनुतां चोत्कृष्टभावोद्धुर:  ।। ७  ।।

सुप्तः प्रेङ्खणके जगत्त्रयपतिः सौवर्णरत्नांचिते

किंकिण्या रणकारिरज्जुचलिते शय्यासुखे पाटलै: ।

दोलागीतिमलौकिकामविरतं शृण्वन् जनन्या पितुः

प्रीतीक्षाप्रगुणः कुटुंबिभिरिहैवैकाग्रमालोकितः ।। ८  ।।

आसीत् शैशवमद्भुतं भगवतो बाल्यं च सौभाग्यवद्

तारुण्यं कमनीयमुत्तमगुणं योगाssवृतं यौवनम् ।।

कर्मक्षीणदशाकरः परिणयः पितृत्वमाध्यात्मिकं

तत् सर्वं धरयाsनया विमलया दृष्टं प्रभोः मातृवत् ।।९।। 

नंदीवर्धनबांधवः विनयवान् सौहार्दवारांनिधिः 

विख्यातश्च सुदर्शनाsनुजतया कारुण्यधाराधरः ।

देवार्यः प्रियदर्शना-जनयिता  श्रीमान् यशोदापतिः

त्रिंशद्वर्षमिहाsवसद् गृहितया श्रीवर्धमानप्रभु:  ।। १० ।।

वीरस्पर्शवती धरेह रजसा वृक्षैः समीरैः जलैः

रोगान्नाशयति प्रभावगुरुता तीर्थस्य का कथ्यते ।

यस्यामामलकीं गतः निकृतवान् सर्पं पिशाचं प्रभुः

तस्यां निंबवनं मनोहरघनच्छायं स्थितं संप्रति ।। ११ ।।

स्वर्याते पितरि प्रभुर्हि विरतिं संप्रार्थयन् वारितो

भ्रात्रा भोगसुखं जहौ शुचिमनाः वैराग्यमध्याश्रित: ।

कायोत्सर्गरतः प्रलंबितभुजा नासाग्रनेत्र: स्थिरः

संवेगस्थितिरेतया शुभधरण्या नित्यमालोकितः।। १२ ।।

दीक्षार्थं जयकारिनंदिवचनैर्लोकांतिकै: सन्मतिः

विज्ञप्तोsवधिबोधवानिह सदा देदीप्यमानोsर्कवत् ।

तेने वार्षिकदानमिच्छितकरं सर्वार्थसंपादकं

श्रीसिद्धाचलतीर्थवद् भविकतानिर्घोषकं सिद्धिदम् ।।१३ ।।

कार्तिक्या दशमीदिनेsसितरसे दीक्षाsभिषेको महान्

सर्वेन्द्रै: विहितः ततश्च शिबिकायात्रा प्रभो: निर्गता ।

यद् यद् वर्णनमस्ति तस्य सरसं श्रीकल्पसूत्राभिधे

शास्त्रे क्षत्रियकुंडभूमिरखिलं प्रत्यक्षमैक्षिष्ट तत् ।।१४।।

आषाढांबुधरोपमस्त्रिभुवनाssनंदो नभोभेदकः

निर्घोषो दशदिग्जयी भगवति स्वीयाssलयात् प्रस्थिते  ।

एतस्यां पुरि देवदानवनरैः संख्यातिगैः यः कृतः

तेनेव स्वरितैः झरैर्गिरिगतैरद्यापि संगीयते ।। १५ ।।

आयाते नगराद् बहिः बहुतरौ श्रीज्ञातखंडे वने

प्रस्थाने परिहृत्य पुण्यशिबिकामायादशोकांघ्रिपे ।

संग्राहैरथ पंचभि: शिरसिजानां केशलोचं प्रभुः

कृत्वा दीक्षितवानिहत्र हि नमो सिद्धाणमित्युच्चरन्  ।।१६ ।।

देवेन्द्रार्पितदेवदूष्यसुभगः श्रीवर्धमानप्रभु: 

षष्ठं सप्तममाप्तवान् वरगुणस्थानं मनःपर्ययम् ।

निर्ग्रंथो महाभिक्षुरूर्ध्वगतिमानध्यात्मसंवित्तिभाक्

एतां पुण्यवतीं निरावृतपदस्पर्शेन चक्रे भुवम् ।। १७  ।।

वीरे प्रव्रजिते वने च विगते शून्यत्वमध्यागतं 

पुर्यां पौरजनेsथ राजभवनस्थेषु स्वकीयेष्वपि ।

सर्वेषां नयनाश्रुभिः प्रतिपलं वर्षद्भिरापूरिता

गंभीरा बहुवारिसिंधुरमलाsक्षीणप्रवाहाsभवत्  ।। १८ ।।

नंदीवर्धनभूपतिः किल निजां हर्तुं वियोगव्यथां

मूर्तिं कारयति स्म भक्तहृदयः साक्षादिवोज्जागृताम् ।

भव्यां मेचकवर्णतर्जितमहामेघद्युतिं निर्मलां 

चित्तोषाय शताधिकाष्टभिरुदारैः लक्षणैः शोभिताम्  ।। १९ ।।

देवा भक्तिरसेन बिंबरचनाकाले तनौ शिल्पिनः

स्थित्वा चक्रुरनारतं भगवतः प्रत्यंगनिर्मापणम् ।

मूर्तौ तेन हि मानवोत्तरमहः प्रत्यक्षमालोक्यते

सौंदर्यं कमनीयमात्मसुखदं चैतन्यमत्यद्भुतम् ।। २० ।।

शीर्षं कोमलकुंतलं वरशिखोच्छृंगं सुमेरून्नतं

भालः चंद्रविशाल उन्नतघनभ्रूभ्राजितो भास्वरः ।

आर्हन्त्यप्रगुणे महोत्पलदलस्निग्धे कृपावासिते

नेत्रे भार्गवभासुरे भगवतः सर्वज्ञतोट्टंकिते  ।। २१ ।।

तीक्ष्णाsग्रा करवालिकेव मणिनेवोद्दीपिता नासिका

सुस्पर्शा कलिकावदच्छमृदुला पुष्टा कपोलस्थली  ।

बिंबौष्ठौ स्थलपद्मपाटलतरौ माधुर्यगंगाधरौ

कर्णावाकृतिसुंदरौ विसृमरौ सेवंतिकापत्रवत् ।। २२ ।।

ग्रीवा शंखसमा त्रिरत्नसदृशा रेखात्रयेणांकिता

स्कन्ध: गौरववान् हिमालयसमुत्तुंगः सदाधारद:  ।

वक्षो वारिधितीरभूमिविततं श्वासैरिव प्रोन्नतं 

कुक्षिः नाभिसुलक्षणा तनुतरा श्रोणिश्च पंचास्यवत् ।। २३  ।।

अंगुलीदशकेन पुष्पकलिकारम्येण हस्तांजलि:

बद्धो वीरविभोरनंतबलिनः प्रत्यक्षमाशीःसमः  ।

अम्भोजासनवर्तिनो: चरणयो: पार्ष्णिप्रदेशे स्पृशन्

ऊर्जाssनन्त्यमिवार्हतः प्रकटयत्यदृश्यभाभास्वरम् ।। २४ ।।

गंगातीरविशालतामिव वहन् जंघाप्रदेशो मृदु: 

जानुस्थानमिवाssम्रतुल्यमभयाssधानं च पंचांगुलम् ।

पूते पादतले सुरेखिततया संपद्भिरभ्यर्चिते

प्रत्यङ्गं विलसत्यवर्णनीयता देवाधिदेवे परा ।। २५ ।।   

जीवत्वेन सनातनेन सततं सिक्तेव साक्षात् कृतिः 

सर्वांगीणसुखाsवतारसुभगा सौन्दर्यसंवाहिनी 

मूर्तिः वीरजिनेश्वरस्य परमानंदप्रदा राजते  

लोकालोकविलोकिनीव परमै: तेजोभिरूद्दीपिता ।। २६ ।।

राज्ञा सा भुवनाsभिरामभवनालंकारहारोपमे

चैत्ये बांधवतुल्यरूपसुभगा मूर्तिः प्रतिष्ठापिता ।

दुःखं दोषमघं हरत्यविरतं दुर्भाग्यमज्ञानितां

सौभाग्यं च सुखं सदैव वितरत्यध्यात्ममुर्जां मुदम्  ।। २७ ।।

कैवल्यादनु वर्धमानभगवान् अभ्यागतो ब्राह्मणाद् 

कुंडग्रामणि भव्यकैरववनान्युल्लासयन् सूर्यवत्  ।

आद्यां मातरमाद्यतातमनघज्ञानश्रियाsबोधयत्

देवानंदकरीप्रसूः वृषभदत्तस्यांगजः सर्ववित् ।। २८ ।।

पुण्यः प्रेमपयःस्रवः स्वजननीवक्षःस्थलाद् योsभवत्

तं वित्त्वा गुरूगौतमः जिनपतिं पप्रच्छ तत्कारणम् ।

माता मे जनको ममेति पितरौ संलक्ष्य नाथोsवदत् 

तं श्रुुत्वा पितरौ महाव्रतधरौ जातौ शिवं चाssप्नुताम् ।। २९ ।।

आयाति भगवानमेयकरूणाशाली स्म वर्षे चतु –

श्चत्वारिंशति जन्मतीर्थनगरे कुंडे चलन् क्षत्रिये।

प्रव्रज्या प्रियदर्शनां भगवता दत्ता सजामातृकां

लोकान् पंचशतान् च राजपरिवारस्थान् सहस्राsधिकान् ।। ३० ।।

निध्यातुं निजगेहमंदिरगतां मूर्तिं नृपेणेश्वरो

विज्ञप्तः समुपेतवान् स्वसहभू-वात्सल्यशाली किमु ।

सा दृष्टा निजनेत्रसाक्षिकमनंतज्ञानिना जीवित –

स्वामित्वेन सुशोभिता समभवत् श्वासैरिव प्राणिता ।। ३१ ।।

कल्याणत्रयशोभिता भगवतो वीरस्य भूमिः गुणै –

राकंठं सुभृता सुधारसमयी जीयात् सुधर्माश्रया ।

यातेषु किल पंचविंशतिशतेष्वद्यापि वर्षेष्वियं

प्रख्याता लछवाड इत्यभिधया विष्वक्चमत्कारिणी ।। ३२ ।।

एतत् पर्वततीर्थमस्ति शिखरे ग्रामे तटस्थायिनि

चंचच्चैत्यचतुष्टयं विलसति प्रौढप्रभावाश्रयम्  ।

वैशालीजनवासदायिलछवाडे श्वेतशृगांकित-

माद्यं यात्रिनिवासभोज्यसुविधाsत्राssस्ते बहिर्मंदिरम् ।। ३३ ।।

अन्यं तु च्यवनस्थले बहुजलातीरे तृतीयं प्रभोः

प्रव्रज्याभुवि तुर्यमस्ति भगवज्जन्मस्थले पर्वते ।।

धन्या लक्षजना जिनेन्द्रचरणेष्वायान्ति कर्मक्षयं

पुण्योपार्जनमाप्नुवन्ति कल्याणकस्पर्शनात् ।। ३४ ।।

मातंगः सुरनायकः भगवतीसिद्धायिकासंयुत

एतं तीर्थमनारतं स्वयमधिष्ठाति प्रभावोत्कट: ।

नक्तं देवगणेन जन्मभवने तोर्यत्रिकेणोत्सव

आरात्रीयविधिश्च सांध्यसमये लोकोत्तर: साध्यते  ।। ३५ ।।

काले काल उपागतैः मुनिजनैः संप्रेरितैः श्रावकैः

उद्धारादिकमादृतं प्रतियुगं चैत्येषु मार्गेषु च ।

तेनाद्यावधि तीर्थगौरववतीयं भूमिराभ्राजते

अर्हच्छासनभासनैः सुविहितैः गच्छैः समग्रैर्मता ।। ३६ ।।

उद्धारो विमलाद्रिणेव सुमहानस्याsभवद् विश्रुतः

कालेस्मिन्नवद्यशिल्परचनाशाली जगद्भासुरः ।

श्रीश्वेतांबरजैननामसुभगासोसायटीप्रार्थितै

राचार्यैः नयवर्धनैः सुविहितैः सूरीश्वरै: निश्रितः ।। ३७ ।।

जन्मस्थानगचैत्यमेकशिखरं पूर्वं यदासील्लघु

तत् त्रिंशन्नवशृंगमुच्चजगतीमंडोवरं मध्यतः ।

स्वर्गाsभ्याहृतवद् विशिष्टधवलैः पाषाणखंडै: कृतं

निर्दोषै: निपुणैरुदारललितैः शिल्पैः समुट्टंकितम् ।। ३८ ।।

दुग्धैः किं दधिभिश्च किं नु नवनीतैः किं हिमैः निर्मितं

किं मुक्ताभिरपां कणैः शशिकरैः किं शारदाभ्रैः कृतम् ।

नव्यं वीरजिनालयं विजयते सर्वांगशुभ्रं महा-

मेरूत्तुंगमनंतपुण्यकरणं पापावलिह्रासकृत् ।। ३९ ।।

स्तंभानां कमनीयसूक्ष्मरचना भास्वत्कलामंडिता

भित्तीनां सकलैव चित्रघटना प्राणैरिवोज्जीविता ।

द्वाराणां दशदिग्जितामिव महार्घ्या तोरणाsलंकृतिः

काचिद् देवविनिर्मितेव च वितानानां कलोत्कृष्टता ।। ४० ।।

मुक्तापुंजवदुज्ज्वलं च रजतालंकारवद्दीप्तिमद्

अत्यंताsद्भुतमाबुचैत्यसदृशं विस्तारकं नेत्रयोः ।

शब्दाsतीतकलाकृति स्वरमहादेव्येव संटंकितं

चैत्येsस्मिन् जननीयुगाभिधमतुल्याssभं गवाक्षद्वयम् ।। ४१ ।।

उद्ग्रीवो ननु वीरविक्रममहाप्रासाद ऊर्जामयो

लोधापानिगतं महालयमहो दूरस्थितं प्रेक्षते ।

यत्राsर्हज्जनकस्य पुण्यवसतिर्जीर्णा वरीवर्तते

देवाधिष्ठितगुप्तकोशकलिता भूमिश्च यत्राsनघा।। ४२ ।।

उत्तुंगे शिखरे ध्वजा विहरति स्वर्णीयदंडाश्रिता

मातृस्वप्नसहोदराsतिचपला सर्वांगनृत्यंकरा ।

अश्रांतं गगनांगणे जिनयशोगाथाsभिलेखे रता

भाषावर्गणयेव सर्ववचनैराध्यया सर्वदा ।। ४३ ।। 

सर्वैकेन्द्रिय-वर्ग-ढौकित-नमस्या-द्रव्य-पुंजोपमै-

रुद्याने सुमनोभिरस्ति सततं सौरभ्यलीलाद्भुता ।

भक्तिः किं विकलेन्द्रियैरपि मृदादिस्थैश्च पंचेन्द्रियै:

कान्तारे निवसद्भिरत्र भवति श्रीवर्धमानप्रभो : ।। ४४ ।।

जीर्णोद्धार उदात्त आदृतवति प्रख्यातशिल्पिजनै  

राष्ट्रव्यापकशोकदात्री घटना याsत्राsभवत् तां शृणु ।

श्रीवीरप्रतिमैव दुष्टहृदयै: स्तेनैररे चोरिता । 

कैरेतच्च कथं किमर्थमकृत ज्ञप्तिर्न तस्याsभवत् ।। ४५।।

संख्याsतीतजनाश्रुनीरनिकरैर्जाने समुद्रो भृत: 

भक्तानामथ वीर वीर वचनैर्दुःखावलिर्जागृता ।

पृथ्वीवारिमरूद्दवेषु गगने पीडाप्रसारोsभवत् 

शून्यत्वं स्फुरितं त्रिलोकमहिते श्रीवीरबिंबे हृते ।। ४६।।

जापो ध्यानमनुष्ठितिः बहु तपो संघेन संपादितं

तत्कालीनप्रजाधिपैर्निजनिजा राज्याधिपा देशिता: ।

आशाभंगभयाकुलै: गुरुजनैर्देवा अपि प्रार्थिता 

किंतु स्वामिजिनेश्वरोsप्रकटितोsस्थात् कुत्रचित् पावनः ।।४७।।

एकस्मिन् दिवसे स्वयं क्वचिदपि क्षेत्रे ददौ दर्शनं 

नाथः पूर्णमबाधितः सुखमुख: चौरादिवृत्तांतगुप् ।

मन्ये स्वां शुभपीठिकामपि समुद्धर्तुं जिनेन्द्रोsकरोत् 

क्षेत्राधीश्वरदेवसाधितमहो स्थानांतरं सावधि ।। ४८।।

अत्यंतं सरलीकृतं भगवता आमूलमुद्धारणं  

तेनोत्साहरसोल्लसत्कृतिजनैरुद्दामशोभांचितो ।

प्रासादो दिविषन्मदापहरणो निर्मापितः सत्वरं

जीयाद् वीरविभु: स्वभक्तहृदयाकांक्षां सदा पूरयन् ।।४९।।

आकाशाश्वखपक्ष(२०७०)संवति गुरुं विज्ञप्तवान् विक्रमाद्

श्रीसंघो नयवर्धनं भुवि समुद्धारं सुनिर्देशितुम् । 

क्ष्माधात्वंबरयुग्म(२०७१)संवति समुद्धारस्य भूपूजनं 

शिलास्थापनमप्यभूदभिनवप्रासादनिर्मापणे ।।५०।।

नेत्राब्ध्यभ्रकरे च मूर्तिरनघा चौरै: हृता कार्तिकी –

कृष्णायाया अपरातिथौ च पुनराप्ता सा दशम्या दिने 

नूनं सा नवनिर्मितिं सरलयितुं बन्धुप्रतिष्ठापिता

गात् सर्वप्रथमं प्रणीतिसमयादन्यत्र मूलस्थलात् ।।५१।।

क्ष्माखंडाsगखकर्णसंवति (२०७६)महामासस्य शुक्लाचतु-

र्दश्यां वीरजिनेश्वरो नवतरे चैत्ये प्रतिष्ठापित: । 

आचार्यैनयवर्धनै: सविजयैरुद्धारनिर्देशकै

र्गीतार्थैर्गुरुरामचंद्रभगवत्पट्टांशुमद्भिर्मुदा ।। ५२।।

अध्युच्चे शिखरे ध्वजा प्रसरिता वाजिंत्रनादैस्समं 

ओम् पुण्याहमिति प्रघोषरटणा भक्तैरसंख्यै: कृता । 

देवैर्नर्तनमादृतं विलसितं राष्ट्रे महाहर्षणं

वन्यां सौरभवर्षणं नगकुले व्याप्तं सुखस्पंदनै: ।।५३।।

नानापूजनमंडित: सुरथयात्राशोभनो गायनै:

संगीतै: बहुमंत्रमंगलगुणः भव्यातिभव्योsभवत् । 

अर्हच्छासनभासनो भविजनानंदः प्रतिष्ठोत्सवः

सर्वत्रोन्नतिकारकांजनशलाकादिव्यविध्याश्रितः ।। ५४।।

तिर्यंचो वनवासिनश्च विहगा खाद्यै: प्रसन्नीकृता: 

ग्राम्या निर्धनमानवाश्च वसनाद्यै: भूरि संतोषिता ।

सत्कारैर्बहुराज्यकारिण उदारैर्जग्मुरात्मीयतां 

सम्यग्दर्शनभूमिकामिव धियं जैनेतरा प्रापिता ।।५५।।

आस्ते गर्भगृहे त्रिलोकहृदयस्था जीवितस्वामिनी 

मूर्ति: मानवदेवदानवसमाराध्याsमृतस्राविणी ।

श्यामाsम्भोधरभास्वराsक्षियुगलं विद्युुत्समं बिभ्रती 

तापं नाशयति प्रसन्नयति हृत् पुष्णाति सत्त्वोन्नतिम् ।।५६।।

श्रीमानादिजिनो मरीचिसमये वीराssत्मदीक्षार्पकः

श्रीसीमंधरनायकः भगवतः सम्यक्त्वसाक्षी बहिः ।

श्रीमान् पार्श्वजिनः त्रिलोकमहितः पित्रोः समर्च्यः प्रभो-

रागामिजिनपद्मनाभभगवांश्च श्रेणिकाssत्मा कृती ।। ५७।।

वीराssद्याsन्तिकवासिगौतमगणाधिपस्य लब्धीशितुः 

वीरस्याssदिमपट्टधारकसुधर्मास्वामिनः मूर्तयः ।

मातंगस्य महासुरस्य भगवद्भक्तस्य तीर्थेशितुः

चंचच्चारू-चमत्कृतीष्टवरदा-सिद्धायिकाया अपि ।। ५८।।

दृष्ट्वा यानि मनोरमाणि नितमां वर्णेषु रेखास्वपि

श्रेष्ठै: सन्मतिसप्तविंशतिभवानां भावयात्रा भवेत् ।

चित्रैस्तै परिमाणकत्रययुतैः पाषाणपट्टांकितैः

त्रिंशत्तो नवसंख्यदेवकुलिका भ्राजन्त उद्यत्कला: ।। ५९।।

मुंबय्यां पुरि नव्यबिंबनिकरो प्राणै: प्रतिष्ठां गतः 

सोsयं कुंडपुरे प्रफुल्लनयनैरानीत आस्थालुभि: ।

नव्यैका प्रतिमा च कुंडनगरे प्राणप्रतिष्ठामगात् 

सर्वाभिश्च नवं जिनालयमिदं स्वर्गीयतामाप्नुवत् ।। ६०।।

दीक्षाया च्यवनस्य मंदिरयुगं यत् कुंडघाटे बभौ

तन्मग्नं जलबंधवारि वसुधा राज्येण दत्ता नवा  । 

एतस्यां तलहट्टिका विरचिता शोभामयी श्रावकै:  

रम्यं चैत्ययुगं सुशिल्पमिह सच्चित्रांचितं कारितम् ।।६१।।

आसीद्यत्र पुरा पुरं तदभवत् स्थानं वनं चैत्यवद् 

दारामस्थलभोज्यगेहविकलं मार्गोsप्यभूद् दुर्गमः ।

तत्रोपाश्रययुग्म-भक्तिभवन-स्नानस्थली-भोजन

शाला-गोपुरनिर्मिति: समभवद् मार्गोsनुकूलोsभवत् ।। ६२।।

माओवादिन उग्रशस्त्रकलिता लुण्टाकवृत्ता अति-

क्रूरा नास्तिकधीषणा इह समुद्धारेsन्तरायेच्छव:  । 

प्रापु: निष्फलतां द्विवारमयमेवास्ति प्रभावोर्हतः 

वीरो विघ्नविदारणो विजयते वन्दारूवृंदार्चित: ।। ६३।।

द्रव्याणां शतकोटितोsधिकधनं संघैश्च भक्तैर्जनै-

रुद्धाराय समर्पितं भगवते स्वोल्लासतः सादरम् । 

याञ्चापत्रकमुद्रणे न विहिते न प्रेषितेsपि क्वचित् 

पूर्णं वित्तमुपागतं स्वयमहो देशाद् विदेशादपि ।। ६४।।

वीराद् कोटिगणे चराचरहिते श्रीवज्रशाखास्थिते  

धन्ये चान्द्र कुले विभासिनि तपागच्छे जगद्विश्रुते ।

आरूढ शुभपीठमात्मकमलाद् श्रीवीरदानादनु

प्रेमाचार्यगुरोः प्रचंडयशसः पट्टाधिकारे पदे ।।६५।।

दीक्षाधर्मसुरक्षको जिनमतोद्भासे सहस्रांशुमान् 

कारुण्योदधिरात्मशुद्धिकुशलो व्याख्यानवाचस्पति: ।

अर्हद्धर्मधुराधरः त्रिकरणैैर्योगी पवित्रो महान्

आचार्येश्वररामचन्द्रसुगुरु: सम्यक्त्वविस्तारकः।। ६६।।

निर्लेपो बहुमाननेsपि धनिभिर्भक्तैर्जनैर्लक्षशः

निर्भीः धर्मविरोधिवारणविधौ निस्तंद्रपुण्योदयः ।

निर्मानो शत एकविंशतियुते स्वे शिष्यसंघे सति

निर्द्वंद्वो जयतीह सूरिभगवान् तीर्थंकरै: सदृश: ।।६७।।

पुण्यानामधिशेखरो मतिमतामीष्टो महाssध्यात्मिको

गच्छाधीश्वररामचंद्रभगवान् पृष्ठः समाख्यातवान्  ।

जानुस्थानलघुक्षतेsपि भगवान् पूज्योsस्ति निःसंशयम्

एवं मूर्तिसुरूपवांछुककनैयालाल वैद्योपधम् ।।६८।।

जीर्णोद्धारनिदेशमुन्नतिधिया चक्रे स्वयात्राक्षणे

श्रीजैनप्रवचस्युदात्तवचनं तल्लभ्यते मुद्रितम्  ।

सत्य वाक्यमभूदिदं निजकशिष्यस्यैव संप्रेरणात्

सूरीणां सफलीभवन्ति नियतं वाचो विचारा अपि ।। ६९।।

लक्ष्मीनंदनवृंदवंदितपदो व्याख्यानसम्राट् कवि:

विश्वग्गामियशाः कुशाग्रमतिमान् आज्ञैकनिष्ठोsमलः ।

वाणीवैभववान् श्रुतार्थकुशलः सारस्वतो मंत्रविद् 

सूरीन्द्रो नयवर्धनो मुनिपति: शास्त्रोदधि: सत्त्ववान्।। ७०।।

मूर्तिं सुंदरमंदिरे निजगुरोरस्थापयत् श्रावकै: 

साधुुं श्रीनयदर्शनं स्वजनकं चैव स्मरन् प्रत्यहम् । 

प्रेम्णा श्री जिनशासनेति समितिं सद्धर्मसेवाकरीं

नाम्ना भारतवर्षिकामिह समुद्धारे समायोजयत् ।। ७१।।

धन्यः क्षत्रियकुंडराड् भगवतोsग्र्यो नंदितो वर्धन : 

धन्या श्रीजिनशासनेति समितिः तीर्थोद्धृतौ संगता ।

धन्यो  श्रीनयवर्धनो गुरुवरो तीर्थोद्धृतिप्रेरको

धन्या वीरजिनेन्द्रभक्तसुजना येsर्थाsर्पणं चक्रिरे ।। ७२।।

( क्षत्रियकुंडप्रशस्ति: सूरीश्वररामचंद्रशिष्येण ।

प्रशमरतिविजयेन नयवर्धनसूरिणेरितेन कृता ।। )

Share

Leave a Reply

Your email address will not be published. Required fields are marked *