
आचार्येण मम्मटेन काव्यप्रकाशस्य प्रारम्भे काव्यं त्रिप्रकारमस्तीति निरूपितम् । तत्र उत्तमं काव्यं तदस्ति यस्मिन् वाच्यरूपाद् अर्थात् व्यङ्ग्यरूपः अर्थः अधिकं प्राधान्यं वहति , तच्च रसप्रधानं प्रायः । मध्यमं काव्यं तदस्ति यस्मिन् वाच्यरूपाद् अर्थात् व्यङ्ग्यरूपः अर्थः गौणो भवति , तच्च अर्थालङ्कारप्रधानं प्रायः । अधमं च काव्यं तदस्ति यस्मिन् वाच्यरूपाद् अर्थादपि शब्दसंयोजनमधिकं महत्त्वं धारयति , तच्च शब्दालङ्कारप्रधानं प्रायः। महाकविभिः रसप्राधान्येनैव काव्यानि , महाकाव्यानि च विरचितानि , तेष्वेव च अर्थालङ्कारविस्तारिका वर्णनच्छटा संपादिता । केवलं शब्दचमत्कृतिः महाकवीनां प्रथमा प्रीतिः नासीद् , अतः तैः रसमर्थालङ्कारं गौणं कृत्वा केवला शब्दचमत्कृतिः प्रधाने स्थाने कदापि न स्थापिता । वाचकः रसधाराम् अलङ्कारचमत्कृतिं च समीहते सरलभाषायाम् । यथा प्रसादगुणगुम्फिता वाणी हृदये संवेदनानि जनयति तथा काठिन्यक्रूरा नैव कदाचिद् । शब्दप्रधानेषु काव्येषु चित्रकाव्यं मुरज-पद्म-शूलबन्धादिकं , एकाक्षर-द्व्यक्षरादिकं , द्वि – त्रि – चतुष्पादादियमकं च प्रसादगुणाभावाद् न रसस्पन्दानुकूलम् । इदमेव भगवता हेमचन्द्राचार्येण काव्यानुशासने पञ्चमेऽध्याये चतुर्थसूत्रटीकायां लोल्लटमतमुद्धृत्य निरूक्तम् = यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः । अभिमानमात्रमेतद् गड्डरिकादिप्रवाहो वा ।। इति । तैरेव च पञ्चमसूत्रटीकायां स्वर-व्यञ्जन-स्थान-गति-आकार-नियमानां च्युत-गूढादिविधानं विविच्य प्रान्ते टिप्पणी कृता : एतच्च कष्टकाव्यत्वात् क्रीडामात्रफलत्वाच्च न काव्यरूपतां ददाति …..।
ननु रसकाव्यम् अलङ्कारकाव्यं शब्दकाव्यं चेति त्रिप्रकारेषु काव्येषु चरमं यदि रचनीयमेव नास्ति तर्हि किमर्थं महाकविभिः तद्रचना आदृता ? शिशुपालवध – किरातार्जुनीय – नरनारायणानन्देषु कानिचित् पद्यानि घटकर्परादौ च सर्वाण्येव पद्यानि शब्दकाव्यतया निबद्धानि सन्ति । किमेते कवयः कष्टकाव्यकारिणः सन्तीति भवतामाक्षेप : ? इति चेद् न ।शब्दचमत्कृतिप्रधानः काव्यप्रकारः कैश्चिद् उपेक्षितोऽपि दृश्यते , कैश्चिद् आदृतोऽपि दृश्यते । काव्यतत्त्वविवेचकैः एतावदेव स्वीयं निरीक्षणं संदर्शितमस्ति यद् शब्दचमत्कृतिप्रधानं काव्यं वाचकानां दुरूहमस्तीति सोऽयं रचनाप्रकारः तादृशीं लोकप्रियतां नाऽवाप यथा मेघदूत – गीतगोविन्द – नीतिशतकादिषु प्रयुक्तो प्रथमो , द्वितीयो वा रचनाप्रकारः। तैरेव विवेचकै: निजनिजग्रन्थेषु शब्दचमत्कृतिप्रधानं काव्यं कथं विरच्यते तस्य विस्तारेण मार्गदर्शनं कृतमेव । यथा काव्याऽऽदर्शे दण्डिना , काव्याऽलङ्कारे रूद्रटेन , सरस्वतीकण्ठाभरणे भोजराजेन । साहित्यदर्पणे तु विश्वनाथेन दशमाऽध्याये , काव्यान्तर्गतगडुभूततया तु नेह प्रपञ्च्यते , इति कथयता उपेक्षितमपि तत् । शब्दचमत्कृतिप्रधानः काव्यप्रकारः समादृतः अल्पैः , समुपेक्षितश्च बहुभिरिति सारांशः ।
एतस्य उपेक्षाकारणानि एतानि । एकं तावद् , पठने सारल्यं नास्ति अतः सर्वे न पठन्तीति सीमितो वाचकवर्गो लभ्यते । द्वितीयं यद् , रचनाकृत् प्रकाण्डो भाषाविद् न भवेत् तर्हि लेखनमपि न संभाव्यते इति अतिसीमितः सर्जकसमूहः । तृतीयं च , अध्यापका अपि यदि सुविदग्धा न स्युः तर्हि कथं छात्रान् पाठयेयुः इति काममल्पसङ्ख्यः शिक्षकगण एतस्याऽनुकूलो लभ्यते । चतुर्थं तु , विद्वांसः अपि पठनक्षणे तत्कालमेव हृदयाऽऽह्लादकारिणीं रसानुभूतिं वाञ्छन्ति , सा तु कठिनशब्दयोजनावशाद् विलम्बेन जायते इति एकादि पद्यं पठित्वा तेऽपि प्रायः विचारयन्ति यत् पश्चात् कदाचित् पठिष्याम इति ।एवंविधे प्रातिकूल्ये सत्यपि शब्दचमत्कृतिप्रधानानि काव्यानि नैकैः कविभिः विरचितानि सन्ति । शोभनचतुर्विंशतिका – सोमप्रभचतुर्विंशतिकाद्वयी – ऐन्द्रस्तुतिचतुर्विंशतिकादिको विशालो शब्दचमत्कृतिप्रधानकाव्यसन्दोहो जैनपरम्परायां दृश्यते । शब्दचमत्कृतिप्रधानं काव्यं चित्रम् । तस्य स्वरचित्रं , व्यञ्जनचित्रं , गतिचित्रं , आकारचित्रमिति प्रथमो वर्गः। च्युतं , दत्तं , गूढं , प्रहेलिका , प्रश्नोत्तरी चेति द्वितीयो वर्गः । अत्र च्युतमपि मात्राच्युतं , अर्धमात्राच्युतं , बिन्दुच्युतं , वर्णच्युतम् इत्यनेकधा । एवमेव दत्तादिकेऽपि वैविध्यमस्ति । तदेव च्युत – दत्तादिप्रयोगमाश्रित्य राजीमती-रथनेमिसंवादकाव्यं शान्तरसाऽनुकूलं विरचितमस्ति मुनिवरेण श्रीमता पार्श्वसुन्दरविजयेन यदवलोक्य मनः प्रसन्नतामेति ।
संवादोऽयं प्रतिदिनं प्रत्याख्यानपारणाऽनन्तरं सप्तदशगाथास्वाध्याये मनोयोगं पवित्रीकरोति । तत्र – समाइ पेहाइ परिव्वयंतो , सिया मनो निस्सरइ बहिद्धा । न सा महं नोवि अहंपि तीसे , इच्चेव ताओ विणइज्ज रागं ।। एषा अस्ति उपनिषद्गाथा । यदा रागो जागर्ति तदा साधकदशा विनिवर्तते परन्तु यदा साधकदशा जागर्ति तदा रागो विनिवर्तते । रागस्य जागरणे सति जीवो किं वक्ति तदत्र वर्णितमस्ति । साधकदशाया जागृत्यां जीवो किं वक्ति तदपीह वर्णितमस्ति । अयं तु विशेषः यद् यस्मिन् श्लोके रागस्य वक्तव्यमस्ति तस्मिन्नेव श्लोके साधकदशाया वक्तव्यमस्ति । एकस्मिन् श्लोके उभयपक्षीयवक्तव्यता समावेशिता च्युतस्य , दत्तस्य वा प्रयोगेण । प्रथमं वक्तव्यं रथनेमिमुखेन आयाति । च्युतस्य , दत्तस्य वा संयोजनेन द्वितीयं वक्तव्यं राजीमतीमुखेन आयाति । च्युतस्य , दत्तस्य वा संयोजनेन किं भवति ? श्लोकस्य चतुर्थपङ्क्तिस्थितं पदं किञ्चित् संकेतयति , तदनुसारेण श्लोकस्य प्रथम – द्वितीय – तृतीयपङ्क्तिषु केचित् शब्दाः परिवर्तिता भवन्ति । शब्देषु परिवर्तितेषु अर्थपरिवर्तनमपि जायते । ततः सः एव श्लोको विभिन्नं कञ्चिदर्थं दर्शयति । यथा प्रथमे श्लोके चतुर्थपङ्क्तिस्थितः शेवधि – शब्दः रथनेमिपक्षे उपयुक्तः सन् सूचयति यद् शे = श इति अक्षरस्य स्थाने वस्य धीः = व इति अक्षरो वाच्यः । एतेन किं परिवर्तनं भवति , पश्यन्तु । शक्रता वक्रता भवति , निःशस्त्रः निर्वस्त्रः भवति , शर्म वर्म भवति । अथ श्लोको नवीनार्थो भवति । नवीनः अर्थः राजीमतीपक्षमुपस्थापयति । शकारेण रथनेमिपक्षे रागस्य वचनम् । वकारेण राजीमतीपक्षे साधकदशाया वचनम् ।
एवं द्वितीयश्लोके चतुर्थपङ्क्तिस्थितः वियोग – शब्दः सूचयति यद् वि – अक्षरं योजयतु । तृतीयश्लोके चतुर्थपङ्क्तिस्थितः अत्र – शब्दः सूचयति यद् – अपनयतु त्राम् । चतुर्थश्लोके चतुर्थपङ्क्तिस्थितः मेद – शब्दः सूचयति यद् – म अक्षरस्य स्थाने द अक्षरः प्रयोक्तव्यः । पञ्चमश्लोके चतुर्थपङ्क्तिस्थितः वेपमान – शब्दः सूचयति यद् – व अक्षरस्य स्थाने प अक्षरः प्रयोक्तव्यः । षष्ठश्लोके चतुर्थपङ्क्तिस्थितः प्रत्युक्ति – शब्दः सूचयति यद् – प्रति उपसर्गं सर्वत्र योजयतु । एवं सर्वेषु श्लोकेषु चतुर्थपङ्क्तिस्थितः कुञ्चिकाशब्दः परिवर्तनं सूचयति । यदाऽभिप्रेतपदाद् अक्षरविशेषो निष्कास्यते तदा च्युताक्षरी प्रयोगो ज्ञेयः यथा तृतीयश्लोकात् त्रा निष्कासितः । यदाऽभिप्रेतपदेन सह नवमेकं पदं संयोज्यते तदा दत्ताक्षरी प्रयोगो ज्ञेयः यथा द्वितीयश्लोके वि संयोजितः। यदाऽभिप्रेतपदादेकं पदं निष्कास्यते तत्स्थाने च नवमेकं पदं स्थाप्यते तदा प्रतिदत्ताक्षरी प्रयोगो ज्ञेयः यथा प्रथमश्लोके श निष्कासितः तत्स्थाने च व संयोजितः । च्युताक्षरे निष्कासनम् , दत्ताक्षरे संयोजनम् , प्रतिदत्ताक्षरे परिवर्तनम् इति अवधेयम् । एवंविधोऽयं रचनाप्रकारः कुतोऽपि सरलो नास्ति । रचनाकारो निर्मितिमिमां सम्यग् निरवाहयत् ।
एतत्तु ध्येयम् – रससिद्धः कविः कालिदास – भवभूत्यादिवद् नवरसगोचरां यावत्संभाव्यां सर्वामेव प्रस्तुतिमुररीकरोति , अलङ्कारसिद्धः कविः अप्पय्यदीक्षित – पीयूषवर्षजयदेवादिवद् अलङ्कारविषयिणीं यावत्संभाव्यां सकला अपि कल्पना प्रयुङ्क्ते , शब्दसिद्धः कविश्च भट्टिवत् शब्दयोजनासम्बन्धिनीं यावत्संभाव्यां निखिलां रचनाकृतिमातनोति । शब्दचमत्कृतिप्रधानस्य काव्यस्य रचयिता शब्दसिद्धः कविरस्तीतीदं यशः समुपार्जितं श्रीमता पार्श्वसुन्दरविजयेन ।
शान्तरसप्रधानानि चतुःपञ्चाशत् – प्रेरणासूत्राणि तेन सुग्रथितानि सन्ति तावत्सङ्ख्यासु शार्दूलविक्रीडितछन्दोनिबद्धगाथासु । वर्तमानसमय आधिक्येन गूर्जर – हिन्दी – आङ्ग्लभाषासु लेखका लिखन्ति । एतादृशि काले सारस्वतशिरोमणि – पूज्यपादाऽऽचार्यवर्यश्रीमद्विजयरत्नसुन्दरसूरीश्वराणामन्तेनिषदां पूज्याऽऽचार्यवर्यश्रीमद्विजययुगसुन्दरसूरिवराणां शिष्यवरेण मुनिराजश्रीपार्श्वसुन्दरविजयेन कविकुले गौरवपूर्णं स्थानमास्कन्दितमस्ति राजीमतीरथनेमिसंवादकाव्येन । श्रमणोत्तमोऽयं रचयतु रसाऽलङ्कारपूर्णानि काव्यानि , तानि च भवन्तु सदालम्बनानि प्रभुभक्तानां गुरुसेवकानां धर्मोपासकानां तीर्थप्रेमिणां सङ्घस्नेहिनामिति वागीश्वरीश्री सरस्वतीमहादेवीसमक्षमाकाङ्क्षा ।
( ग्रंथ विमोचन : १५.६.२०२५ )
Leave a Reply