सौख्ये निर्लेपभावस्य कला धर्मेण साध्यते ।
दु:खेषु साम्यभावस्य बलं धर्मेण लभ्यते ।। ६ ।।
आलस्यं परमो दोषः पुरुषार्थस्य बाधकः ।
शनैः शनैर् विनश्यन्ति गुणाः सर्वे प्रमादिन: ।। ७ ।।
क्रोधेन भुज्यते जीवै : परिणाम – चतुष्टयम् ।
वैर ग्रंथि: शमाभावो धर्मनाशः सुखक्षयः ।। ८ ।।
श्रद्धया चिन्त्यते जीवो रक्ष्यते पापवृत्तितः ।
योज्यते निर्जरायां च सोડयं धर्मः शिवङ्करः ।। ९ ।।
यः पश्यन् भगवन्मूर्तिं निजं मोक्षं स्मरत्यलम् ।
स भक्तः शान्तिमाप्नोति समाधिं सिद्धिमुत्तमाम् ।। १० ।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply