यो मोक्षरागवान् मोक्षविचारणपरायणः ।
स एव भगवद्-भक्त्यास्वादमाप्नोति वास्तवम् ।। १ ।।
त्वं कुतोડत्र समायातः कुत्र चान्ते प्रयास्यसि ।
किमादाय त्वमुत्पन्नः किं साकं स्थास्यति त्वया ।। २ ।।
धर्ममार्गे भवेदेव परीक्षाડपि पुनः पुनः ।
अनादिकर्मनाशस्य प्रक्रिया सरलाડस्ति किम् ।। ३ ।।
यथा शक्तिस्तथा धर्मः करणीयो मनीषिणा ।
औचित्यस्य भवेद् हानिः – ऊने वाડप्यधिके कृते ।। ४ ।।
धर्मक्रियां प्रकुर्वीत विधिपूर्वकमात्मविद् ।
अविधिर्धर्मसामर्थ्य-हानिकृत् फलबाधकः ।। ५ ।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply