प्रभोः पार्श्वे निजं दु:खं सुखं वा मा विचिन्तय ।
अपराधमघं दोषं साश्रुनेत्रो विचारय ।। २१ ।।
दोषाणामपराधानां पारोડस्ति नास्मदात्मनः ।
गुणानामुपकाराणां पारो न परमात्मनः ।।२२ ।।
पापं कुर्वन् परन्तु तत्-पश्चात्तापं वहन् हृदि ।
पापत्यागेच्छुको बन्धं न कुर्यात् तीव्रकर्मणां ।। २३ ।।
निर्बलत्वं स्वकीयं त्वं पश्य वारय तत् पुनः ।
अन्येषां निर्बलत्वस्य चर्चया किं भविष्यति ।। २४ ।।
गुणेषु वृद्धिरायातु हानिर्दोषेषु सन्ततम् ।
धर्मस्यैतत् परं लक्ष्यं वीतरागैरुदाहृतम् ।। २५ ।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply