सर्वोડपि जगतो लोको मृत्युना बाध्यते तथा ।
घने वने विलग्नेन पावकेन तृणं यथा ।। ११ ।।
क्रोधेन प्रथमं तावद् निजात्मा दह्यते भृशम् ।
अन्यसंतापकत्वं तु द्वितीयं तस्य दूषणम् ।। १२ ।।
कषायकलुषं चित्तं सदा पापस्य कारणम् ।
क्रोधाद्वा मानतस्तत् स्याद् मायातो लोभतोડथवा ।। १३ ।।
दु:खं मा देहि मा देहि कस्मैचिद् वा कदाचन ।
योડपि दद्यात् परं दुःखं स स्वयं दुःखभाग् भवेत् ।। १४ ।।
सौख्य लाभे न हर्ष: स्याद् न शोको दुःखसङ्गतौ ।
एतदेव हि संपूर्णं स्वाधीनत्वं निरूच्यते ।। १५ ।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply