यश्चकार शुभं तस्य समय: सुन्दरो गत : |
योऽकरोदशुभं तस्य समयो दूषितो मत : ।।२६।।
कुरू कारय सत्कार्यं देहि साहाय्यमादरात् ।
पुण्यमर्जय भावेन प्रशंसातोડनुमोदनात् ।।२७।।
आचारपालनेन स्यात् सदा कल्याणमात्मन: ।
श्रेयोलाभो भवत्येवं सदाचारानुमोदनात् ।।२८।।
धर्मेण लभ्यते सौख्यं वैराग्यं धर्मचिन्तनात् ।
आत्महानि: सुखेनाડस्ति वैराग्यादात्मशोधनम्।।२९।।
धर्मो यस्य विचारेषु नीरेषु प्रतिबिम्बवत् ।
वसति श्रद्धया युक्तः श्रावकोડसौ निगद्यते ।।३०।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply