Press ESC to close

श्री रामचन्द्र – प्रकाश : ( श्लोक 16 to 20 )

585

उपदेशस्तथा देयो ज्ञानिना धर्मपीठतः ।
श्रोतॄणां स्वीयदोषानां विबोधो जायते यथा ।। १६ ।।
शुभानां सद्विचाराणां वासनापाशनाशिनाम् ।
प्रवाहोડजस्रधारो यः तमाहुर्धर्मदेशनाम् ।। १७ ।।
एकं तदेव वक्तव्यं चिन्त्यं श्रोतव्यमुत्तमम् ।
पठनीयं च दृष्टव्यं धर्मास्था स्याद् दृढा यतः ।। १८ ।।
द्वेषं पूर्वग्रहं चित्ते धृत्वाડनात्मीयभावनाम् ।
सतोડसतो हि दोषस्य गानं निन्दा निरूच्यते ।। १९ ।।
ईष्टं यादृग् यथा सत्यं तादृगेव तदा वचः ।
निर्भयेनोच्यते स्पष्टं स्वातन्त्र्यं वचसोડस्ति तत् ।। २० ।।

Updesh by Shree Ramchandrasureeshvarji Maharaja

Samskrit Transformation by Devardhi Saheb

Leave a Reply

Your email address will not be published. Required fields are marked *