यावती वर्तते शक्तिः यावान् च समयो भवेत् ।
श्रद्धानं हृदये यावत् तावान् धर्मो निषेव्यताम् ।।३१ ।।
सद्धर्मं कुरू भावेन यशोवांछां तु मा कुरू ।
सानुबन्धस्य धर्मस्य म्लानिः स्यात्कीर्तिलिप्सया।।३२।।
भगवान् पूजितो येन सद् गुरु: पर्युपासितः ।
सज्जनै: सङ्गतिर्यस्य तज्जन्म सार्थकं मतम् ।।३३।।
प्राबल्यं यावदंशेन त्रुट्यति द्वेष-रागयोः ।
मनः प्रसन्नतामेति तावदंशेन धर्मतः ।। ३४ ।।
संस्कारिणां मनुष्याणा-मेतल्लक्षणमुत्तमम् ।
अन्येषां सद्-गुणान् वीक्ष्य प्रमोदो हृदये भवेत् ।। ३५ ।।
Updesh by Shree Ramchandrasureeshvarji Maharaja
Samskrit Transformation by Devardhi Saheb
Leave a Reply